शुची᳚ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह᳚तः ।
अनो᳚ मन॒स्मयं᳚ सू॒र्यारो᳚हत्प्रय॒ती पति᳚म् ॥
अनो᳚ मन॒स्मयं᳚ सू॒र्यारो᳚हत्प्रय॒ती पति᳚म् ॥
पदपाठः (Word-by-word)
शुची॒ इति᳚ । ते॒ । च॒क्रे इति᳚ । या॒त्याः । वि॒॑आ॒नः । अक्षः᳚ । आ॑ह᳚तः ।
अनः᳚ । म॒न॒स्मय᳚म् । सू॒र्या । आ । अ॒रो॒ह॒त् । प्र॒॑य॒ती । पति᳚म् ॥
अनः᳚ । म॒न॒स्मय᳚म् । सू॒र्या । आ । अ॒रो॒ह॒त् । प्र॒॑य॒ती । पति᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
यत्या गच्छन्त्यास्ते तवानसश्चक्ते चङ्क्रमणशीले रथाङ्गे शुची श्रोत्रे आस्ताम्। व्यानस्तव व्यानो वायुरक्षः। उभयरथचक्रच्छिद्रगामिनी या काष्ठा सा च रथस्य सर्वं भारं वहति। सोऽक्षो व्यानोऽभुत्। मनस्मयं मनोमयमनः शकटं सूर्या पतिं सोमं प्रतिप्रयती प्रकर्षॆण गच्छन्त्यारोहत्। आरूढवती। पतिं प्रति जिगमिषोर्मनोरूपस्य रथस्य पत्युर्गुणश्राविणी श्रोत्रे एव चक्रे अभूतां व्यानो धारको वायुश्चेष्टकोऽक्षोभूदित्यर्थः॥१२॥