श्रवणम्

10.126.3
ते नू॒नं नो॒॑यमू॒तये॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
नयि᳚ष्ठा उ नो ने॒षणि॒ पर्षि᳚ष्ठा उ नः प॒र्षण्यति॒ द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
ते । नू॒नम् । नः॒ । अ॒यम् । ऊ॒तये᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
नयि᳚ष्ठाः । ऊं॒ इति᳚ । नः॒ । ने॒षणि᳚ । पर्षि᳚ष्ठाः । ऊं॒ इति᳚ । नः॒ । प॒र्षणि᳚ । अति᳚ । द्विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं वरुणो मित्रश्चार्यमा च देवा नोऽस्माकमूतये रक्षणाय नूनमवश्यं भवन्तु। नेषणि नेतव्ये विषये हे वरुणादयः यूयं नोऽस्मान्नयिष्ठाः। नयत। वचनव्यत्ययः। यद्वा। प्रत्येकाभिप्रायेणैकवचनम्। छान्दसो लुङ्। उशब्दः समुच्चये पदपूरणार्थो वा। पर्षणिः पारयितव्ये विषये नोऽस्मान्द्विषोऽति पर्षिष्ठाः। अतिपारयथ। नयिष्था इति वत्प्रक्रिया॥३॥