नेता᳚र ऊ॒ षु ण᳚स्ति॒रो वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
अति॒ विश्वा᳚नि दुरि॒ता राजा᳚नश्चर्षणी॒नामति॒ द्विषः᳚ ॥
अति॒ विश्वा᳚नि दुरि॒ता राजा᳚नश्चर्षणी॒नामति॒ द्विषः᳚ ॥
पदपाठः (Word-by-word)
नेता᳚रः । ऊं॒ इति᳚ । सु । नः॒ । ति॒रः । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
अति᳚ । विश्वा᳚नि । दुः॒॑इ॒ता । राजा᳚नः । च॒र्ष॒णी॒नाम् । अति᳚ । द्विषः᳚ ॥
अति᳚ । विश्वा᳚नि । दुः॒॑इ॒ता । राजा᳚नः । च॒र्ष॒णी॒नाम् । अति᳚ । द्विषः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
नेतारो नयनकुशलाः। नयतेः साधुकारिणि तृन्। वरुणादयो देवानोऽस्माकं पापानि सु सुष्ठु तिरस्तिरोधानमदर्शनं नयन्तु। उ इति पूरणः। चर्षणीनां मनुष्याणां राजानः स्वामिनो वरुणादयो देवा विश्वानि सर्वाणि दुरितानि दुरितानि दुर्गमनानि पापफलरूपाण्यस्मानति नयन्तु। द्विषो द्वेष्टॄञ्शत्रूंश्चाति नयन्तु। नामन्यतरस्यामिति चर्षणिशब्दात्परस्य नाम उदात्तत्वम्॥६॥