तद्धि व॒यं वृ᳚णी॒महे॒ वरु᳚ण॒ मित्रार्य᳚मन् ।
येना॒ निरंह᳚सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः᳚ ॥
येना॒ निरंह᳚सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः᳚ ॥
पदपाठः (Word-by-word)
तत् । हि । व॒यम् । वृ॒णी॒महे᳚ । वरु᳚ण । मित्र᳚ । अर्य᳚मन् ।
येन᳚ । निः । अंह᳚सः । यू॒यम् । पा॒थ । ने॒थ । च॒ । मर्त्य᳚म् । अति᳚ । द्विषः᳚ ॥
येन᳚ । निः । अंह᳚सः । यू॒यम् । पा॒थ । ने॒थ । च॒ । मर्त्य᳚म् । अति᳚ । द्विषः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हिरवधारणे। तद्धि तदेव रक्षनं वयं वृणीमहे। प्रार्थयामहे। सति शिष्टोऽपि विकरणस्य स्वरो लसार्वधातुकस्वरं न बाधते। म. ६-१-१५८-११। इति वचनात्तिङ एव स्वरः शिष्यते। हिचेति निघातप्रतिषेधः। हे वरुण हे मित्र हे अर्यमन् येन रक्षनेन मर्त्यं स्तोतारमंहसः पापाद्यूयं निः पाथ निःशेषेण रक्षथ। पा रक्षने आदादिकः। यद्वृत्तान्नित्यमिति निघातप्रतिषेधः। येन च रक्षणेन मर्त्यं मनुष्यं स्तोतारं द्विषोऽतिनेथ अतीत्य नयथ अभीष्टं प्रापयथ तद्वृणीमह इत्यन्वयः। नयतेश्छान्दसः शपो लुक्॥२॥