श्रवणम्

10.126.5
आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
उ॒ग्रं म॒रुद्भी᳚ रु॒द्रं हु᳚वे॒मेन्द्र᳚म॒ग्निं स्व॒स्तये॑ति॒ द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
आ॒दि॒त्यासः᳚ । अति᳚ । स्रिधः᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
उ॒ग्रम् । म॒रुत्॑भिः᳚ । रु॒द्रम् । हु॒वे॒म॒ । इन्द्र᳚म् । अ॒ग्निम् । स्व॒स्तये᳚ । अति᳚ । द्विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदित्यासोऽदितेः पुत्रावरुणादयो देवाः स्रिधो हिंसाकाञ्शत्रूनस्मानतिनयन्तु। मरुद्भिः पुत्रैः सहितमुग्रमुद्गूर्णतेजसं रुद्रमिन्द्रमग्निं च स्वस्तये क्षेमाय हुवेम। आह्वयेमहि। ह्वयतेराशीर्लुङि बहुलं छन्दसीति सम्प्रसारणम् । लिङ्याशिष्यङ्। आहूतास्तेऽस्मान्द्विषो द्वेष्ट नति नयन्तु॥५॥