श्रवणम्

10.46.4
म॒न्द्रं होता᳚रमु॒शिजो॒ नमो᳚भि॒ः प्राञ्चं᳚ य॒ज्ञं ने॒तार᳚मध्व॒राणा᳚म् ।
वि॒शाम᳚कृण्वन्नर॒तिं पा᳚व॒कं ह᳚व्य॒वाहं॒ दध᳚तो॒ मानु᳚षेषु ॥
▶ पदपाठः (Word-by-word)
म॒न्द्रम् । होता᳚रम् । उ॒शिजः᳚ । नमः᳚॑भिः । प्राञ्च᳚म् । य॒ज्ञम् । ने॒तार᳚म् । अ॒ध्व॒राणा᳚म् ।
वि॒शाम् । अ॒कृ॒ण्व॒न् । अ॒र॒तिम् । पा॒व॒कम् । ह॒व्य॒॑वाह᳚म् । दध᳚तः । मानु᳚षेषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

उशिजः कामयमाना ऋत्विजो मन्द्रं मादनीयं होतारं होमनिष्पादकं प्राञ्चं गार्हपत्यादाहवनीयं प्रति प्रागञ्चन्तं यज्ञं यजनीयमध्वराणां यागानां नेतारं प्रापयितारमरतिं गन्तारं सर्वदा यागगृहे वर्तमानं पावकं शोधकं हव्यवाहं हविषो वोढारं मानुषेषु मनुष्येषु मध्ये दधतो दधाना ऋत्विजो विशां यजमानानामर्थायि। यद्वा। विशां प्रजानामरतिमर्यम् । स्वामिनमित्यर्थः। नमोभिर्नमस्करैः। स्तुतिभिरित्यर्थः। अकृण्वन्। अकुर्वन्। सुप्रीतं कृतवन्तः॥४॥