नी॒चा व᳚र्तन्त उ॒परि᳚ स्फुरन्त्यह॒स्तासो॒ हस्त᳚वन्तं सहन्ते ।
दि॒व्या अङ्गा᳚रा॒ इरि᳚णे॒ न्यु᳚प्ताः शी॒ताः सन्तो॒ हृद᳚यं॒ निर्द᳚हन्ति ॥
दि॒व्या अङ्गा᳚रा॒ इरि᳚णे॒ न्यु᳚प्ताः शी॒ताः सन्तो॒ हृद᳚यं॒ निर्द᳚हन्ति ॥
पदपाठः (Word-by-word)
नी॒चा । व॒र्त॒न्ते॒ । उ॒परि᳚ । स्फु॒र॒न्ति॒ । अ॒ह॒स्तासः᳚ । हस्त᳚॑वन्तम् । स॒ह॒न्ते॒ ।
दि॒व्याः । अङ्गा᳚राः । इरि᳚णे । नि॑उ᳚प्ताः । शी॒ताः । सन्तः᳚ । हृद᳚यम् । निः । द॒ह॒न्ति॒ ॥
दि॒व्याः । अङ्गा᳚राः । इरि᳚णे । नि॑उ᳚प्ताः । शी॒ताः । सन्तः᳚ । हृद᳚यम् । निः । द॒ह॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
अपि चैते अक्षाः नीचा नीचीनस्थले वर्तंते तथाप्युपरि पराजयाद्भीतानां द्यूतकराणां कितवानां हृदयस्योपरिस्फुरंति अहस्तासोहस्तरहिताअप्यक्षाः हस्तवंतं द्यूतकरं कितवं स- हंते पराजयकरणेन अभिभवंति । दिव्यादिविभवाअपकृताः अंगाराः अंगारसदृशाः अक्षाः इरिए इंधनरहिते आस्फारे न्युप्ताः शीताः शीतस्पर्शाः संतोपि हृदयं कितवानामंतःकरणं निर्दहंति पराजयजनितसंतापेन भस्मीकुर्वंति ॥ ९ ॥