न मा᳚ मिमेथ॒ न जि᳚हीळ ए॒षा शि॒वा सखि᳚भ्य उ॒त मह्य᳚मासीत् ।
अ॒क्षस्या॒हमे᳚कप॒रस्य᳚ हे॒तोरनु᳚व्रता॒मप᳚ जा॒याम᳚रोधम् ॥
अ॒क्षस्या॒हमे᳚कप॒रस्य᳚ हे॒तोरनु᳚व्रता॒मप᳚ जा॒याम᳚रोधम् ॥
पदपाठः (Word-by-word)
न । मा॒ । मि॒मे॒थ॒ । न । जि॒ही॒ळे॒ । ए॒षा । शि॒वा । सखि᳚॑भ्यः । उ॒त । मह्य᳚म् । आ॒सी॒त् ।
अ॒क्षस्य᳚ । अ॒हम् । ए॒क॒॑प॒रस्य᳚ । हे॒तोः । अनु᳚॑व्रताम् । अप᳚ । जा॒याम् । अ॒रो॒ध॒म् ॥
अ॒क्षस्य᳚ । अ॒हम् । ए॒क॒॑प॒रस्य᳚ । हे॒तोः । अनु᳚॑व्रताम् । अप᳚ । जा॒याम् । अ॒रो॒ध॒म् ॥
सायणभाष्यम् (Sayana Commentary)
एषास्मदीया जाया मा मां कितवं नमिमेथ नच चुक्रोध न जिहीळे नच लज्जित- घती सखिभ्योस्मदीयेभ्यः कितवेभ्यः शिवा सुखकर्यासीदभूत् । उतापिच मह्यं शिवासीत् इत्थमनुव्रतामनुकूलां जायां एकपरस्य एकः परः प्रधानं यस्य तस्याक्षस्य हेतोः कारणा दह्रमपारोधं परित्यक्तवानस्मीत्यर्थः ॥ २ ॥