श्रवणम्

10.34.4 समानपद
अ॒न्ये जा॒यां परि᳚ मृशन्त्यस्य॒ यस्यागृ᳚ध॒द्वेद᳚ने वा॒ज्य१॒᳚क्षः ।
पि॒ता मा॒ता भ्रात᳚र एनमाहु॒र्न जा᳚नीमो॒ नय᳚ता ब॒द्धमे॒तम् ॥
▶ पदपाठः (Word-by-word)
अ॒न्ये । जा॒याम् । परि᳚ । मृ॒श॒न्ति॒ । अ॒स्य॒ । यस्य᳚ । अगृ᳚धत् । वेद᳚ने । वा॒जी । अ॒क्षः ।
पि॒ता । मा॒ता । भ्रात᳚रः । ए॒न॒म् । आ॒हुः॒ । न । जा॒नी॒मः॒ । नय᳚त । ब॒द्धम् । ए॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य कित्वस्य वेदने धने वाजी बलवान् अक्षोदेवोऽगृधत् अभिकांक्षां करोति तस्या- स्य कितवस्य जायां भार्यामन्ये प्रतिकितवाः परिमृशंति वस्त्रकेशाद्याकर्षणेन संस्पृशंति । किंच पिता माता जननी च भ्रातरः सहोदराश्चैनं कितवमाहुः वदंति न वयमस्मदीयं एनं जानीमः रवा बद्धमेतं कितवं हे कितवायूयं नयत यथेष्टदेशं प्रापयतेति ॥ ४ ॥