श्रवणम्

10.34.3
द्वेष्टि᳚ श्व॒श्रूरप᳚ जा॒या रु᳚णद्धि॒ न ना᳚थि॒तो वि᳚न्दते मर्डि॒तार᳚म् ।
अश्व᳚स्येव॒ जर᳚तो॒ वस्न्य᳚स्य॒ नाहं वि᳚न्दामि कित॒वस्य॒ भोग᳚म् ॥
▶ पदपाठः (Word-by-word)
द्वेष्टि᳚ । श्व॒श्रूः । अप᳚ । जा॒या । रु॒ण॒द्धि॒ । न । ना॒थि॒तः । वि॒न्द॒ते॒ । म॒र्डि॒तार᳚म् ।
अश्व᳚स्य॑इव । जर᳚तः । वस्न्य᳚स्य । न । अ॒हम् । वि॒न्दा॒मि॒ । कि॒त॒वस्य᳚ । भोग᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्वश्रूर्जायायामाता गृहगतं कितवं द्वेष्टि निंदतीत्यर्थः । किंच जाया भार्यापरुणद्धि निरु- णद्धि । अपिच नाथितोयाचमानः कितवः धनं मर्डितारं धनदानेन सुखयितारं नविंदते न लभते । इत्थं बुद्द्याविमृशत्वान्नाहं जरतोबृद्धस्य व स्र्यस्य वस्नं मूल्यं तदर्हस्याश्व्स्येव कितवस्य भोगं न विंदामि न लभे ॥ ३ ॥