श्रवणम्

10.34.13
अ॒क्षैर्मा दी᳚व्यः कृ॒षिमित्कृ᳚षस्व वि॒त्ते र᳚मस्व ब॒हु मन्य᳚मानः ।
तत्र॒ गावः᳚ कितव॒ तत्र᳚ जा॒या तन्मे॒ वि च᳚ष्टे सवि॒तायम॒र्यः ॥
▶ पदपाठः (Word-by-word)
अ॒क्षैः । मा । दी॒व्यः॒ । कृ॒षिम् । इत् । कृ॒ष॒स्व॒ । वि॒त्ते । र॒म॒स्व॒ । ब॒हु । मन्य᳚मानः ।
तत्र᳚ । गावः᳚ । कि॒त॒व॒ । तत्र᳚ । जा॒या । तत् । मे॒ । वि । च॒ष्टे॒ । स॒वि॒ता । अ॒यम् । अ॒र्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कितव बहुमन्यमानोमद्वचने विश्वासं कुर्वन् त्वमक्षैर्मा दीव्योद्यूतं मा कुरु । कृषि- मित् कृषिमेव कृषस्व कुरु । विक्तेकृष्या संपादिते धने रभस्व रतिं कुरु । तत्र कृषौ गावोभवंति तत्र जाया भवति तदेव धर्मरहस्यं श्रुतिस्मृतिकर्ता सविता सर्वस्य प्रेरकोयं दृष्टिगोचरोऽर्यईश्वरोमे मह्यं विचष्टे विविधमाख्यातवान् ॥ १३ ॥