अग्ने॒ बाध᳚स्व॒ वि मृधो॒ वि दु॒र्गहापामी᳚वा॒मप॒ रक्षां᳚सि सेध ।
अ॒स्मात्स᳚मु॒द्राद्बृ᳚ह॒तो दि॒वो नो॒॑पां भू॒मान॒मुप᳚ नः सृजे॒ह ॥
अ॒स्मात्स᳚मु॒द्राद्बृ᳚ह॒तो दि॒वो नो॒॑पां भू॒मान॒मुप᳚ नः सृजे॒ह ॥
पदपाठः (Word-by-word)
अग्ने᳚ । बाध᳚स्व । वि । मृधः᳚ । वि । दुः॒॑गहा᳚ । अप᳚ । अमी᳚वाम् । अप᳚ । रक्षां᳚सि । से॒ध॒ ।
अ॒स्मात् । स॒मु॒द्रात् । बृ॒ह॒तः । दि॒वः । नः॒ । अ॒पाम् । भू॒मान᳚म् । उप᳚ । नः॒ । सृ॒ज॒ । इ॒ह ॥
अ॒स्मात् । स॒मु॒द्रात् । बृ॒ह॒तः । दि॒वः । नः॒ । अ॒पाम् । भू॒मान᳚म् । उप᳚ । नः॒ । सृ॒ज॒ । इ॒ह ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने दुर्गहा दुर्गहाणि दुःखेन गाहितव्यानि शत्रुपुराणि वि बाधस्व। तथामीवां रोगमप सेध। तथा रक्षांस्यप सेध। आपवारय। अस्मात्समुद्रात् समुद्द्रवणसाधनाद्ब्रुहतो महतो दिवो द्युलोकादन्तरिक्षाद्वापामुदकानां भूमानं बहुभावं व्रुष्टिसंस्त्यायमिहास्मिल्लोक उप सृज। प्रयच्छेत्यर्थः॥१२॥