श्रवणम्

10.98.11
ए॒तान्य᳚ग्ने नव॒तिं स॒हस्रा॒ सं प्र य᳚च्छ॒ वृष्ण॒ इन्द्रा᳚य भा॒गम् ।
वि॒द्वान्प॒थ ऋ᳚तु॒शो दे᳚व॒याना॒नप्यौ᳚ला॒नं दि॒वि दे॒वेषु᳚ धेहि ॥
▶ पदपाठः (Word-by-word)
ए॒तानि᳚ । अ॒ग्ने॒ । न॒व॒तिम् । स॒हस्रा᳚ । सम् । प्र । य॒च्छ॒ । वृष्णे᳚ । इन्द्रा᳚य । भा॒गम् ।
वि॒द्वान् । प॒थः । ऋ॒तु॒॑शः । दे॒व॒॑याना᳚न् । अपि᳚ । औ॒ला॒नम् । दि॒वि । दे॒वेषु᳚ । धे॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने गवामेतानि नवतिं सहस्रा सहस्रानि च वृष्णे वर्षित्र इन्द्राय भागं सं प्र यच्छ। तत्प्रीत्यर्थमृत्विग्भ्यो देहि। किञ्च देवायानान्पथो देवयानान्मार्गान्विद्वांस्त्वमृतुशः काले काल औलानमपि कुरुकुलजातमपि शान्तनवं देवेषु मध्ये धेहि। निधेहि। स्थापय॥११॥