यं त्वा᳚ दे॒वापि᳚ः शुशुचा॒नो अ᳚ग्न आर्ष्टिषे॒णो म᳚नु॒ष्य᳚ः समी॒धे ।
विश्वे᳚भिर्दे॒वैर᳚नुम॒द्यमा᳚न॒ः प्र प॒र्जन्य᳚मीरया वृष्टि॒मन्त᳚म् ॥
विश्वे᳚भिर्दे॒वैर᳚नुम॒द्यमा᳚न॒ः प्र प॒र्जन्य᳚मीरया वृष्टि॒मन्त᳚म् ॥
पदपाठः (Word-by-word)
यम् । त्वा॒ । दे॒व॑आ᳚पिः । शु॒शु॒चा॒नः । अ॒ग्ने॒ । आ॒र्ष्टि॒षे॒णः । म॒नु॒ष्यः᳚ । स॒म्॑ई॒धे ।
विश्वे᳚भिः । दे॒वैः । अ॒नु॒॑म॒द्यमा᳚नः । प्र । प॒र्जन्य᳚म् । ई॒र॒य॒ । वृ॒ष्टि॒॑मन्त᳚म् ॥
विश्वे᳚भिः । दे॒वैः । अ॒नु॒॑म॒द्यमा᳚नः । प्र । प॒र्जन्य᳚म् । ई॒र॒य॒ । वृ॒ष्टि॒॑मन्त᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने यं त्वा त्वां शशुचानः स्तोत्रेण ज्वलन् मनुष्य आर्ष्टिषेणो देवापिः समीधे सम्यग्दीपयति स त्वं विश्वेभिः सर्वैर्देवैरनुमद्यमानोऽनुमाद्यमानः सन् पर्जन्यं मेघं वृष्टिमन्तं वर्षणवन्तं प्रेरय। गमय॥८॥