श्रवणम्

10.98.6
अ॒स्मिन्त्स᳚मु॒द्रे अध्युत्त᳚रस्मि॒न्नापो᳚ दे॒वेभि॒र्निवृ᳚ता अतिष्ठन् ।
ता अ᳚द्रवन्नार्ष्टिषे॒णेन᳚ सृ॒ष्टा दे॒वापि᳚ना॒ प्रेषि᳚ता मृ॒क्षिणी᳚षु ॥
▶ पदपाठः (Word-by-word)
अ॒स्मिन् । स॒मु॒द्रे । अधि᳚ । उत्॑त᳚रस्मिन् । आपः᳚ । दे॒वेभिः᳚ । नि॑वृ᳚ताः । अ॒ति॒ष्ठ॒न् ।
ताः । अ॒द्र॒व॒न् । आ॒र्ष्टि॒षे॒णेन᳚ । सृ॒ष्टाः । दे॒व॑आ᳚पिना । प्र॑इ᳚षिताः । मृ॒क्षिणी᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मिन्पार्थिवे समुद्रे पूरणीये सति। अधीति सप्तम्यर्थानुवादी। उत्तरस्मिन्समुद्रेऽन्तरिक्षाख्य आप उदकानि देवेभिर्द्योतमानैर्निव्रुता निरुद्धा अतिष्ठन् ता आप आर्ष्टिषेणेनर्ष्टिषेणस्य पुत्रेण देवापिना सृष्टाः प्रेषिताः प्रकर्षेणेच्छां प्राप्ताः काङ्क्षिता मृक्षिणेषु मृष्टवतीषु परिम्रुष्टासु स्थलीष्वद्रवन्। स्रवन्ति॥६॥