श्रवणम्

10.98.3
अ॒स्मे धे᳚हि द्यु॒मतीं॒ वाच᳚मा॒सन्बृह᳚स्पते अनमी॒वामि᳚षि॒राम् ।
यया᳚ वृ॒ष्टिं शंत᳚नवे॒ वना᳚व दि॒वो द्र॒प्सो मधु᳚मा{4}॒ आ वि᳚वेश ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । धे॒हि॒ । द्यु॒॑मती᳚म् । वाच᳚म् । आ॒सन् । बृह᳚स्पते । अ॒न॒मी॒वाम् । इ॒षि॒राम् ।
यया᳚ । वृ॒ष्टिम् । शम्॑त᳚नवे । वना᳚व । दि॒वः । द्र॒प्सः । मधु᳚॑मान् । आ । वि॒वे॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे बृहस्पते त्वमस्मे अस्मासु द्युमतीं दीप्तिमतीं वाचं स्तोत्रात्मिकामासन्नास्येऽस्मदीये धेहि। स्थापय। कीदृशीं वाचम्। अनमीवाममीवारहिताम्। वाचोऽमीवा नाम गद्गदादिदोषः। तथेषिरां गमनशीलाम्। यया वाचा स्तुत्यात्मकया देवानिष्ट्वा शन्तनवे वृष्टिकामाय वनाव सम्भजेवहि वृष्टिं त्वं चाहं च दिवो द्युलोकात्। त्वयाधिष्ठितो द्रप्स उदकस्यन्दो मधुमान् माधुर्योपेतं आ विवेश। आविशति वाचमिति समन्वयः॥३॥