आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि᳚र्नि॒षीद᳚न्दे॒वापि᳚र्देवसुम॒तिं चि᳚कि॒त्वान् ।
स उत्त᳚रस्मा॒दध᳚रं समु॒द्रम॒पो दि॒व्या अ᳚सृजद्व॒र्ष्या᳚ अ॒भि ॥
स उत्त᳚रस्मा॒दध᳚रं समु॒द्रम॒पो दि॒व्या अ᳚सृजद्व॒र्ष्या᳚ अ॒भि ॥
पदपाठः (Word-by-word)
आ॒र्ष्टि॒षे॒णः । हो॒त्रम् । ऋषिः᳚ । नि॒॑सीद᳚न् । दे॒व॑आ᳚पिः । दे॒व॒॑सु॒म॒तिम् । चि॒कि॒त्वान् ।
सः । उत्॑त᳚रस्मात् । अध᳚रम् । स॒मु॒द्रम् । अ॒पः । दि॒व्याः । अ॒सृ॒ज॒त् । व॒र्ष्याः᳚ । अ॒भि ॥
सः । उत्॑त᳚रस्मात् । अध᳚रम् । स॒मु॒द्रम् । अ॒पः । दि॒व्याः । अ॒सृ॒ज॒त् । व॒र्ष्याः᳚ । अ॒भि ॥
सायणभाष्यम् (Sayana Commentary)
आर्ष्टिषेण ऋष्तिषेणस्य पुत्रो देवापिरृषिर्देवसुमतिं देवानां कल्याणीं मतिं स्तुतिं चिकित्वाञ्जानन् होत्रं होतृकर्म कर्तुं निषीदन् निषण्णो भवति। स उत्तरस्मादुपरि वर्तमानादन्तरिक्षाख्यात्समुद्रादधरमधो वर्तमानं पार्थिवं समुद्रमभि दिव्या दिवि भवा वर्ष्या वर्षभवा अपोऽसृजत्। स्रुजतु। अत्रार्ष्टिषेण ऋष्टिषेणस्य पुत्र इत्यादि निरुक्तम्॥ २-११। द्रष्टव्यम्॥५॥