सो चि॒न्नु सख्या॒ नर्य᳚ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इन्द्रो॒ माव᳚ते॒ नरे᳚ ।
विश्वा᳚सु धू॒र्षु वा᳚ज॒कृत्ये᳚षु सत्पते वृ॒त्रे वा॒प्स्व१॒᳚भि शू᳚र मन्दसे ॥
विश्वा᳚सु धू॒र्षु वा᳚ज॒कृत्ये᳚षु सत्पते वृ॒त्रे वा॒प्स्व१॒᳚भि शू᳚र मन्दसे ॥
पदपाठः (Word-by-word)
सः । चि॒त् । नु । सख्या᳚ । नर्यः᳚ । इ॒नः । स्तु॒तः । च॒र्कृत्यः᳚ । इन्द्रः᳚ । मा॑व᳚ते । नरे᳚ ।
विश्वा᳚सु । धूः॒॑सु । वा॒ज॒॑कृत्ये᳚षु । स॒त्॑प॒ते॒ । वृ॒त्रे । वा॒ । अ॒प्॑सु । अ॒भि । शू॒र॒ । म॒न्द॒से॒ ॥
विश्वा᳚सु । धूः॒॑सु । वा॒ज॒॑कृत्ये᳚षु । स॒त्॑प॒ते॒ । वृ॒त्रे । वा॒ । अ॒प्॑सु । अ॒भि । शू॒र॒ । म॒न्द॒से॒ ॥
सायणभाष्यम् (Sayana Commentary)
सो चिन्नु स ख्लविन्द्रः सख्या सखिभूतेन निमित्तेन नर्यो नृभ्यो हित इनः सर्वस्येश्वरः स्तुतः सर्वैरभिष्टुतः। सख्या स्तुत इति वान्वयः। मावते मत्सदृशाय नरे नराय चर्कृत्यः। पुनः पुनः कर्तव्यः। परिचरणीय इत्यर्थः। अथ प्रत्यक्षवादः। हे सत्पते सतां पालकेन्द्र स त्वं विश्वासु सर्वासु धूर्षु वोढव्येषु कार्यभारेषु वाजकृत्येषु च बलकृत्येषु च वृत्रे वाप्सु मेघे वर्तमानेषूदकेषु च निमित्तेषु हे शूर त्वमभि मन्दसे। अभिष्टूयसे॥२॥