ए॒ता विश्वा॒ सव᳚ना तूतु॒मा कृ᳚षे स्व॒यं सू᳚नो सहसो॒ यानि᳚ दधि॒षे ।
वरा᳚य ते॒ पात्रं॒ धर्म᳚णे॒ तना᳚ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य᳚तं॒ वचः᳚ ॥
वरा᳚य ते॒ पात्रं॒ धर्म᳚णे॒ तना᳚ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य᳚तं॒ वचः᳚ ॥
पदपाठः (Word-by-word)
ए॒ता । विश्वा᳚ । सव᳚ना । तू॒तु॒मा । कृ॒षे॒ । स्व॒यम् । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । यानि᳚ । द॒धि॒षे ।
वरा᳚य । ते॒ । पात्र᳚म् । धर्म᳚णे । तना᳚ । य॒ज्ञः । मन्त्रः᳚ । ब्रह्म᳚ । उत्॑य᳚तम् । वचः᳚ ॥
वरा᳚य । ते॒ । पात्र᳚म् । धर्म᳚णे । तना᳚ । य॒ज्ञः । मन्त्रः᳚ । ब्रह्म᳚ । उत्॑य᳚तम् । वचः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र एतैतानि विश्व सवना सर्वाणि सवनानि तूतुमा तूर्णानि कृषे। करोषि। एतानीत्युक्तं कानिति तत्राह। हे सहसो बलस्य सूनो पुत्र। बलवन्नित्यर्थः। स्वयं यानि दधिषे धारयसि। हे इन्द्र ते तव वराय शत्रूणां वारकाय ते तव स्वभूतं पात्रं रक्षणं भवत्वस्माकम् । किञ्च धर्मणे धारणाय तना धनं भवत्विति शेशः। किञ्च तुभ्यं यज्ञो मन्त्रः। इज्यतेऽनेनेति यज्ञकरणसाधनभुतो मन्त्रः। यजुरित्यर्थः। ब्रह्म परिवृढम् । शस्त्रमित्यर्थः। तदुभयात्मकं वच उद्यतं भवतिति शेषः॥६॥