श्रवणम्

10.50.7
ये ते᳚ विप्र ब्रह्म॒कृतः᳚ सु॒ते सचा॒ वसू᳚नां च॒ वसु᳚नश्च दा॒वने᳚ ।
प्र ते सु॒म्नस्य॒ मन᳚सा प॒था भु᳚व॒न्मदे᳚ सु॒तस्य᳚ सो॒म्यस्यान्ध᳚सः ॥
▶ पदपाठः (Word-by-word)
ये । ते॒ । वि॒प्र॒ । ब्र॒ह्म॒॑कृतः᳚ । सु॒ते । सचा᳚ । वसू᳚नाम् । च॒ । वसु᳚नः । च॒ । दा॒वने᳚ ।
प्र । ते । सु॒म्नस्य᳚ । मन᳚सा । प॒था । भु॒व॒न् । मदे᳚ । सु॒तस्य᳚ । सो॒म्यस्य᳚ । अन्ध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विप्र मेधाविन्निन्द्र ते तुभ्यं ये ब्रह्मकृतः स्तोत्रकृतो हविष्कर्तारो वा स्तोतारः सचा सङ्घीभूताः सुते सोमेऽभिषुते वसूनां बहूनां धनानां वसुनश्चैकस्य निवासयोग्यस्य धनस्य च दावने दानाय परिचरन्तीति शेशः। अत्र वसूनामिति बहुवचनेनैहिकभोगसाधनानि धनान्यभिप्रेतानि। एकवचनान्तेन च निवाअयोग्यं स्वर्गाख्यं धनमभिप्रेतमित्यवगन्तव्यम्। तेऽनुष्थातारः सुम्नस्य सुखस्य लाभाय मनसा पथा मनोमार्गेण। स्तोत्रवर्त्मनेत्यर्थः। प्र भुवन्। प्रभवन्तु। उक्तवसुदानाय योग्या भवन्त्वित्यर्थः। कदेति उच्यते। सुतस्याभिषुतस्य सोम्यस्य सोमसम्बन्धिनोऽन्धसोऽन्नस्य मदे सति॥७॥