श्रवणम्

10.176.2
प्र दे॒वं दे॒व्या धि॒या भर᳚ता जा॒तवे᳚दसम् ।
ह॒व्या नो᳚ वक्षदानु॒षक् ॥
▶ पदपाठः (Word-by-word)
प्र । दे॒वम् । दे॒व्या । धि॒या । भर᳚त । जा॒त॑वे᳚दसम् ।
ह॒व्या । नः॒ । व॒क्ष॒त् । आ॒नु॒षक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नि प्रणयने प्र देवमिति तृचोऽनुवक्तव्यः। सूत्रितं च। प्रेषितोऽग्निप्रणनीयाः प्रतिपद्यते प्र देवं देव्या धियेति तिस्रः। आ. २-१२। इति॥

हे ऋत्विग्यजमानाः देवं दानादिगुणयुक्तं जातवेदसं जातानां वेदितारं जातप्रज्ञम् जातधनं वेममग्निं प्र भरत। प्रकर्षेण हरत। यद्वा। प्राञ्चं नयत। केन साधनेनेति तदाह। देव्या दीप्तया धिया प्रज्ञया कर्मणा वा। यद्वा। एषा सहयोगे तृतीया। देव्या धिया युक्तम्। किं प्रयोजनमिति चेत्। नोऽस्माकं हव्या हव्यानि हवींष्यानुषगानुपूर्व्यादनुक्रमेण वक्षत्। अयमग्निर्वहेत्। देवान्प्रापयेत्। वहेर्लेटि सिब्बहुलमिति सिप्॥२॥