श्रवणम्

10.176.4
अ॒यम॒ग्निरु᳚रुष्यत्य॒मृता᳚दिव॒ जन्म᳚नः ।
सह᳚सश्चि॒त्सही᳚यान्दे॒वो जी॒वात᳚वे कृ॒तः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता᳚त्॑इव । जन्म᳚नः ।
सह᳚सः । चि॒त् । सही᳚यान् । दे॒वः । जी॒वात᳚वे । कृ॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निरमृतादमरणाद्देवनिमित्ताद्भयादिव जन्मनो जायमानान्मनुष्यनिमित्ताद्भयादप्युरुष्यति। तस्माद्रक्षति। उरुष्यती रक्षाकर्मेति यास्कः। नि. ५-२३। भाववाचिनोऽम्रुतशब्दस्य नञा बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम्। भीत्रार्थानाम्। पा. १-४-२५। इत्यपादानसंज्ञा। अपि चायं देवः सहसश्चित्। सह इति बलनाम। तस्मादुत्तरस्य मत्वर्थीयस्य बहुलं छन्दसीति लुक्। चिच्छब्दोऽप्यर्थः। सहस्वतो बलवतोऽपि सहीयान् बलवत्तरः। सहस्विशब्दादीयसुनि विन्मतोरिति विनो लुक्। टेरिति टिलोपः। एवंभूतो देवो जीवातवे जीवनहेतवे यागाय कृतः। ब्रह्मना सृष्टः॥४॥