अश्नापि᳚नद्धं॒ मधु॒ पर्य᳚पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि᳚ क्षि॒यन्त᳚म् ।
निष्टज्ज᳚भार चम॒सं न वृ॒क्षाद्बृह॒स्पति᳚र्विर॒वेणा᳚ वि॒कृत्य᳚ ॥
निष्टज्ज᳚भार चम॒सं न वृ॒क्षाद्बृह॒स्पति᳚र्विर॒वेणा᳚ वि॒कृत्य᳚ ॥
पदपाठः (Word-by-word)
अश्ना᳚ । अपि᳚॑नद्धम् । मधु᳚ । परि᳚ । अ॒प॒श्य॒त् । मत्स्य᳚म् । न । दी॒ने । उ॒दनि᳚ । क्षि॒यन्त᳚म् ।
निः । तत् । ज॒भा॒र॒ । च॒म॒सम् । न । वृ॒क्षात् । बृह॒स्पतिः᳚ । वि॒॑र॒वेण᳚ । वि॒॑कृत्य᳚ ॥
निः । तत् । ज॒भा॒र॒ । च॒म॒सम् । न । वृ॒क्षात् । बृह॒स्पतिः᳚ । वि॒॑र॒वेण᳚ । वि॒॑कृत्य᳚ ॥
सायणभाष्यम् (Sayana Commentary)
बृहस्पतिरश्नाश्मना व्याप्तया शिलयापिनद्धं पिहितं मधु गोलक्षणं पर्यपश्यत्। परितोऽद्राक्षीत्। तत्र दृष्टान्तः। मत्स्यं न यत्था दीने शुष्क उदनि। उदकशब्दस्योदन्नादेशः। उदके क्षियन्तं निदसन्तं मत्स्यं यथा पश्यति तद्वत्। दृष्ट्वा च तद्गोलक्षणं मधु विरवेण विविधेन शब्देन विकृत्य वलं छित्वा निर्जभार। कथमिव। चमसं न । चमन्ति भक्षयन्त्यत्रेति चमसः सोमपात्रम् । तं यथा वृक्षान्निर्हरति तद्वत्। हरतेर्लिटि रूपम्। ह्रुग्रहोर्घः॥८॥