श्रवणम्

10.68.5
अप॒ ज्योति᳚षा॒ तमो᳚ अ॒न्तरि᳚क्षादु॒द्नः शीपा᳚लमिव॒ वात᳚ आजत् ।
बृह॒स्पति᳚रनु॒मृश्या᳚ व॒लस्या॒भ्रमि᳚व॒ वात॒ आ च᳚क्र॒ आ गाः ॥
▶ पदपाठः (Word-by-word)
अप᳚ । ज्योति᳚षा । तमः᳚ । अ॒न्तरि᳚क्षात् । उ॒द्नः । शीपा᳚लम्॑इव । वातः᳚ । आ॒ज॒त् ।
बृह॒स्पतिः᳚ । अ॒नु॒॑मृश्य᳚ । व॒लस्य᳚ । अ॒भ्रम्॑इ᳚व । वातः᳚ । आ । च॒क्रे॒ । आ । गाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स बृहस्पतिर्ज्योतिषा तमसावृते पर्वतविवरे कृतेन सूर्येणान्तरिक्षात्तत्तमोऽपाजत्। अपागमयत्। तत्र दृष्टान्तः। उद्नः शीपालमिव। यथोदकाद्वातो वायुः शीपालं शैवालमपगमयति तद्वत्। ततः सोऽयमनुमृश्याऽत्र गावस्तिष्थन्तीति विचार्य निश्चित्य वलस्य स्वभुतस्य पर्वतस्यान्तर्गता गा आ चक्रे। आ समन्तादकार्षीत्। कथमिव। अभ्रमिव यथा वायुरन्तरिक्षस्थितमभ्रं मेघमाकिरति तद्वत्॥५॥