आ॒प्रु॒षा॒यन्मधु᳚न ऋ॒तस्य॒ योनि᳚मवक्षि॒पन्न॒र्क उ॒ल्कामि᳚व॒ द्योः ।
बृह॒स्पति᳚रु॒द्धर॒न्नश्म᳚नो॒ गा भूम्या᳚ उ॒द्नेव॒ वि त्वचं᳚ बिभेद ॥
बृह॒स्पति᳚रु॒द्धर॒न्नश्म᳚नो॒ गा भूम्या᳚ उ॒द्नेव॒ वि त्वचं᳚ बिभेद ॥
पदपाठः (Word-by-word)
आ॒॑प्रु॒षा॒यन् । मधु᳚ना । ऋ॒तस्य᳚ । योनि᳚म् । अ॒व॒॑क्षि॒पन् । अ॒र्कः । उ॒ल्काम्॑इ᳚व । द्योः ।
बृह॒स्पतिः᳚ । उ॒द्धर᳚न् । अश्म᳚नः । गाः । भूम्याः᳚ । उ॒द्ना॑इ᳚व । वि । त्वच᳚म् । बि॒भे॒द॒ ॥
बृह॒स्पतिः᳚ । उ॒द्धर᳚न् । अश्म᳚नः । गाः । भूम्याः᳚ । उ॒द्ना॑इ᳚व । वि । त्वच᳚म् । बि॒भे॒द॒ ॥
सायणभाष्यम् (Sayana Commentary)
मधुनोदकेनापुर्षायन् पृथिवीमाभिमुख्येन सिञ्चन्। प्रुष प्लुश स्नेहनसेचनपूरणेषु। व्यत्ययेन विकरणस्य शायजादेशः। ऋतस्योदकस्य योनिं मेघमवक्षिपन् व्रुष्त्यर्थमवकिरन्नर्कोऽर्चनीयो बृहस्पतिर्द्योर्द्युलोकादुल्कामिमिवोल्कां यथोद्धरति तद्वदश्मनः शिलोच्चयाद्वलेनाधिष्थिताद्गाः पणिभिरपहृतान्पशूनुद्धरन्नूर्ध्वं गमयन्भूम्यास्त्वचं तेषां शफैर्वि बिभेद। विभिन्नामकार्षीत्। सर्वत्र गा वितता अकार्षीदित्यर्थः। तत्र दृष्टान्तः। उद्नेव यथा वृआह्ट्युदकेन पर्जन्यो भूमित्वचं विभिनत्ति तद्वत्॥४॥