श्रवणम्

10.68.11
अ॒भि श्या॒वं न कृश᳚नेभि॒रश्वं॒ नक्ष᳚त्रेभिः पि॒तरो॒ द्याम᳚पिंशन् ।
रात्र्यां॒ तमो॒ अद᳚धु॒र्ज्योति॒रह॒न्बृह॒स्पति᳚र्भि॒नदद्रिं᳚ वि॒दद्गाः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । श्या॒वम् । न । कृश᳚नेभिः । अश्व᳚म् । नक्ष᳚त्रेभिः । पि॒तरः᳚ । द्याम् । अ॒पिं॒श॒न् ।
रात्र्या᳚म् । तमः᳚ । अद᳚धुः । ज्योतिः᳚ । अह᳚न् । बृह॒स्पतिः᳚ । भि॒नत् । अद्रि᳚म् । वि॒दत् । गाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पितरः पालयितारो देवा द्यां द्युलोकं नक्षत्रेभिराश्विन्यादिभिरभ्यपिंशन्। अभितोऽदीपयन्। पिश अवयवे। अयं दीपनायां वर्तते। तत्र दृष्तान्तः। श्यावं न यथा श्याववर्णमश्वं कृशनेभिः सौवर्णैराभरणैरलङ्कुर्वन्ति तद्वत्। तथा रात्र्यां तमो निहितवन्तः। किञ्चाहन्नह्नि ज्योतिरादित्याख्यमदधुः। अदधुरित्युत्तरवाक्येन सम्बन्धः करणीयः। अन्यथा स्वरो न घटेत। अत्र तु वाक्यभेदादनिघातः। यदा बृहस्पतिरद्रिं वलेनाधिष्थितं शिलोच्चयं भिनत् अभिनत् विभिद्य च तत्र स्थितान्गाः पशून्विदत् अविदत् आलभत। विदेर्लुङि लृदित्त्वादङ्। तदा देवा एवमकार्षुरित्यर्थः॥११॥