सं गोभि᳚राङ्गिर॒सो नक्ष᳚माणो॒ भग᳚ इ॒वेद᳚र्य॒मणं᳚ निनाय ।
जने᳚ मि॒त्रो न दम्प᳚ती अनक्ति॒ बृह᳚स्पते वा॒जया॒शू{4}रि᳚वा॒जौ ॥
जने᳚ मि॒त्रो न दम्प᳚ती अनक्ति॒ बृह᳚स्पते वा॒जया॒शू{4}रि᳚वा॒जौ ॥
पदपाठः (Word-by-word)
सम् । गोभिः᳚ । आ॒ङ्गि॒र॒सः । नक्ष᳚माणः । भगः᳚॑इव । इत् । अ॒र्य॒मण᳚म् । नि॒ना॒य॒ ।
जने᳚ । मि॒त्रः । न । दम्प᳚ती॒ इति॒ दम्॑प᳚ती । अ॒न॒क्ति॒ । बृह᳚स्पते । वा॒जय᳚ । आ॒शून्॑इ᳚व । आ॒जौ ॥
जने᳚ । मि॒त्रः । न । दम्प᳚ती॒ इति॒ दम्॑प᳚ती । अ॒न॒क्ति॒ । बृह᳚स्पते । वा॒जय᳚ । आ॒शून्॑इ᳚व । आ॒जौ ॥
सायणभाष्यम् (Sayana Commentary)
आङ्गिरसोऽङ्गिरसः पुत्रो नक्शमाणः स्वतेजसा व्याप्नुवन् भग इवेद्भगो देव इव स्थितो बृहस्पतिरेवार्यर्मणं स्तुतेः प्रेरकं स्तोतारं गोभिः सह संनिनाय। नयति। संयोजयति। मित्रो न मित्रो यथा जने जनपदे स्वरश्मीन्संयोजयति तद्वद्दंपती जायापती अनक्ति। सङ्गमयति। स्वसामर्थ्यं तत्र स्थापयतीत्यर्थः। हे बृहस्पते आशून्व्याप्तान्स्वरश्मीन्वाजय। तव स्तोतृषु गमय। स्थापय। आशूनिव व्याप्तानश्वानाजौ सङ्ग्रामे योद्धारो यथा सङ्गमयन्ति तद्वत्॥२॥