श्रवणम्

10.68.12
इ॒दम᳚कर्म॒ नमो᳚ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन᳚वीति ।
बृह॒स्पति॒ः स हि गोभि॒ः सो अश्वै॒ः स वी॒रेभि॒ः स नृभि᳚र्नो॒ वयो᳚ धात् ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । अ॒क॒र्म॒ । नमः᳚ । अ॒भ्रि॒याय᳚ । यः । पू॒र्वीः । अनु᳚ । आ॒॑नोन᳚वीति ।
बृह॒स्पतिः᳚ । सः । हि । गोभिः᳚ । सः । अश्वः᳚ । सः । वी॒रेभिः᳚ । सः । नृ॑भिः᳚ । नः॒ । वयः᳚ । धा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभ्रियायभ्रेषु भवायान्तरिक्ष्याय मध्यमाय बृहस्पतय इदमुक्तं नमः स्तोत्रमकर्म। वयमकार्ष्म। यो ब्रुहस्पतिः पूर्वीर्बह्वीरृचोऽन्वनुक्रमेणानोनवीति अत्यर्थमाभिमुख्येन ब्रवीति स ब्रुहस्पतिरेव गोभिरश्वैश्च युक्तं वीरेभिः पुत्रैर्नृभिर्भृत्यादिभिश्च सहितं वयोऽन्नं नोऽस्मभ्यं स्तोतृभ्यो धात्। दधातु। प्रयच्छतु। तच्छब्दावृत्तिरादरार्था॥१२॥