य॒दा व॒लस्य॒ पीय᳚तो॒ जसुं॒ भेद्बृह॒स्पति᳚रग्नि॒तपो᳚भिर॒र्कैः ।
द॒द्भिर्न जि॒ह्वा परि᳚विष्ट॒माद᳚दा॒विर्नि॒धी{4}र᳚कृणोदु॒स्रिया᳚णाम् ॥
द॒द्भिर्न जि॒ह्वा परि᳚विष्ट॒माद᳚दा॒विर्नि॒धी{4}र᳚कृणोदु॒स्रिया᳚णाम् ॥
पदपाठः (Word-by-word)
य॒दा । व॒लस्य᳚ । पीय᳚तः । जसु᳚म् । भेत् । बृह॒स्पतिः᳚ । अ॒ग्नि॒तपः᳚॑भिः । अ॒र्कैः ।
द॒त्॑भिः । न । जि॒ह्वा । परि᳚॑विष्टम् । आद᳚त् । आ॒विः । नि॒॑धीन् । अ॒कृ॒णो॒त् । उ॒स्रिया᳚णाम् ॥
द॒त्॑भिः । न । जि॒ह्वा । परि᳚॑विष्टम् । आद᳚त् । आ॒विः । नि॒॑धीन् । अ॒कृ॒णो॒त् । उ॒स्रिया᳚णाम् ॥
सायणभाष्यम् (Sayana Commentary)
पीयतः। पीयतिर्हिंसाकर्मा। हिम्सकस्य वलस्य जसुमायुधं यदा यस्मिन्काले भेत् भिनत्ति। केन साधनेन। अग्नितपोभिरग्निवत्तपनशीलैरर्कैरर्चनीयै रश्मिभिः अपि वा मन्त्रैर्जनत्ति। किञ्च दद्भिः। पद्दन्नोमासित्यादिना दन्तशब्दस्य दद्भावः। यथा दन्तैः परिविष्टं भक्ष्यं जिह्वा भक्षयति तद्वत्स परिविष्टं पर्वते पणिभिः परिवृतं वलनामानं यदादत् अभक्षयत् अवधीत् तदानीं तैरपहृतानामुस्रियाणां गवां निधीनाविरकृणोत्। आविर्भूतमकरोत्॥६॥