श्रवणम्

10.122.3
स॒प्त धामा᳚नि परि॒यन्नम᳚र्त्यो॒ दाश᳚द्दा॒शुषे᳚ सु॒कृते᳚ मामहस्व ।
सु॒वीरे᳚ण र॒यिणा᳚ग्ने स्वा॒भुवा॒ यस्त॒ आन᳚ट् स॒मिधा॒ तं जु᳚षस्व ॥
▶ पदपाठः (Word-by-word)
स॒प्त । धामा᳚नि । प॒रि॒॑यन् । अम᳚र्त्यः । दाश᳚त् । दा॒शुषे᳚ । सु॒॑कृते᳚ । म॒म॒ह॒स्व॒ ।
सु॒॑वीरे᳚ण । र॒यिणा᳚ । अ॒ग्ने॒ । सु॒॑आ॒भुवा᳚ । यः । ते॒ । आन᳚ट् । स॒म्॑इधा᳚ । तम् । जु॒ष॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सप्त सप्तसङ्ख्याकानि धामानि स्थानानि पृथिव्यादिलोकात्मकानि परियन् परितो गच्छन्नमर्त्यो मरनधर्मरहितस्त्वं यो यजमानः पुरोडाशादीनि हवींषि दाशत् प्रयच्छति तस्मै दाशुषे दत्तवते सुकृते सुष्थु यागं कृतवते मामहस्व। अपेक्षितं धनं ददस्व। महतिर्दानकर्मा। सुकर्मपापेत्यादिना सुपूवात्कृञो भुते काले क्विप्। यश्च यजमानः समिधा समिन्धनसाधनेनेध्मेन हे अग्ने ते त्वामानट् प्राप्नोति। नशतिर्गतिकर्मा। अस्माच्छान्दसो लङ्। बहुलं छन्दसिति शपो लुक्। छन्दस्यपि दृश्यत इत्याडागमः। अश्नोतेर्वा व्यत्ययेन श्नम्। तं यजमानं सुवीरेण। शोभनवीराः पुत्रा यस्य। वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम्। तादृशेन स्वाभुवा सुष्थ्वा समन्ताद्भूष्णुना वर्धिष्णुना रयिणा धनेन दातव्येन सार्धं जुशस्व॥३॥