श्रवणम्

10.95.17
अ॒न्त॒रि॒क्ष॒प्रां रज᳚सो वि॒मानी॒मुप᳚ शिक्षाम्यु॒र्वशीं॒ वसि᳚ष्ठः ।
उप᳚ त्वा रा॒तिः सु᳚कृ॒तस्य॒ तिष्ठा॒न्नि व᳚र्तस्व॒ हृद᳚यं तप्यते मे ॥
▶ पदपाठः (Word-by-word)
अ॒न्त॒रि॒क्ष॒॑प्राम् । रज᳚सः । वि॒॑मानी᳚म् । उप᳚ । शि॒क्षा॒मि॒ । उ॒र्वशी᳚म् । वसि᳚ष्ठः ।
उप᳚ । त्वा॒ । रा॒तिः । सु॒॑कृ॒तस्य᳚ । तिष्ठा᳚त् । नि । व॒र्त॒स्व॒ । हृद᳚यम् । त॒प्य॒ते॒ । मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्तरिक्षप्राम् स्वतेजसान्तरिक्षस्य पुरयित्रीं तथा रजसो रञ्जकस्योदकस्य विमानीं निर्मात्रीमुर्वशीं वसिष्ठः समानानां मध्येऽतिशयेन वासयिताहमुपशिक्षामि। वशं नयामि। सुकृतस्य शोभनकर्मणॊ रातिर्दाता पुरूरवास्त्वा त्वामुपतिष्ठात्। उपतिष्ठतु। मे हृदयं तप्यते। अतो नि वर्तस्व। एवं राजोवाच॥१७॥