श्रवणम्

10.95.13
प्रति᳚ ब्रवाणि व॒र्तय᳚ते॒ अश्रु᳚ च॒क्रन्न क्र᳚न्ददा॒ध्ये᳚ शि॒वायै᳚ ।
प्र तत्ते᳚ हिनवा॒ यत्ते᳚ अ॒स्मे परे॒ह्यस्तं᳚ न॒हि मू᳚र॒ मापः᳚ ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । ब्र॒वा॒णि॒ । व॒र्तय᳚ते । अश्रु᳚ । च॒क्रन् । न । क्र॒न्द॒त् । आ॒॑ध्ये᳚ । शि॒वायै᳚ ।
प्र । तत् । ते॒ । हि॒न॒व॒ । यत् । ते॒ । अ॒स्मे इति᳚ । परा᳚ । इ॒हि॒ । अस्त᳚म् । न॒हि । मू॒र॒ । मा॒ । आपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमुर्वशीवाक्यम्। हे पुरुरवः त्वां प्रति ब्रवाणि। प्रतिवच्मि। त्वदपत्यमश्रुबाष्पम् वर्तयते। वर्तयिष्यति। आध्य अध्याते वस्तुनि शिवायै शिवे कल्याणे समुपस्थिते सति चक्रन्रुदन्नश्रूणि विमुञ्चन्न क्रन्दत्। नकारश्चार्थे। रोत्स्यति चेत्यर्थः। तत्त्वपदपत्यं ते तुभ्यं हिनव प्रहिणोमि यदपत्यं ते तव सम्बन्ध्यस्मे अस्मासु निहितम्। त्वं परेह्यस्तम् । अस्तमिति गृहनाम। स्वगृहं प्रतिगच्छ। हे मूर मूढ मा मां न ह्यापः। न प्राप्नोषि। हिनवेत्यत्र हिनोतेश्चन्दसि लुङ्लङ्लिटि इति भविष्यदर्थे लङि मिप आमादेशः। गुणः। अन्त्यलोपश्छान्दसः। बहुलवचनादडभावः। आपः। आप्लृ व्याप्तौ। लिटि तिङां तिङो भवन्तिति थलो णल्॥१३॥