श्रवणम्

10.105.8
अव᳚ नो वृजि॒ना शि᳚शीह्यृ॒चा व᳚नेमा॒नृचः᳚ ।
नाब्र᳚ह्मा य॒ज्ञ ऋध॒ग्जोष᳚ति॒ त्वे ॥
▶ पदपाठः (Word-by-word)
अव᳚ । नः॒ । वृ॒जि॒ना । शि॒शी॒हि॒ । ऋ॒चा । व॒ने॒म॒ । अ॒नृचः᳚ ।
न । अब्र᳚ह्मा । य॒ज्ञः । ऋध᳚क् । जोष᳚ति । त्वे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नोऽस्माकं वृजिना वृजिनानि वर्जनीयानि पापान्यव शिशीहि। अत्यर्थम् तनूकुरु। विनाशायेत्यर्थः। वयं चर्चा स्तुत्या साधनेनानृचोऽस्तुतिकानयजमानान्वनेम। हिंसाम। अब्रह्मा। ब्रह्म परिवृढं स्तोत्रम् । स्तुतिविरहितो यज्ञ ऋधक् सस्तुतिकाद्यज्ञात्पृथग्भुतस्त्वे त्वयि न जोषति। न सेवते त्वाम् । न प्रीणयतीत्यर्थः। जुषी प्रीतिसेवनयोः। व्यत्ययेन शप् परस्मैपदं च॥८॥