श्रवणम्

10.105.9
ऊ॒र्ध्वा यत्ते᳚ त्रे॒तिनी॒ भूद्य॒ज्ञस्य᳚ धू॒र्षु सद्म᳚न् ।
स॒जूर्नावं॒ स्वय᳚शसं॒ सचा॒योः ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वा । यत् । ते॒ । त्रे॒तिनी᳚ । भूत् । य॒ज्ञस्य᳚ । धूः॒॑सु । सद्म᳚न् ।
स॒॑जूः । नाव᳚म् । स्व॑य᳚शसम् । सचा᳚ । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव स्वभुता त्रेतिनी। त्रेताग्नित्रयम्। तद्वती त्रेतिनी क्रिया। सा यद्यदोर्ध्वोन्नता प्रवृत्ता भुत् अभूत्। यद्योगादनिघातः। कुत्र स्थान इति। यज्ञस्य यागस्य सद्मन् स्दने। केष्विति। धूर्षु कर्मणां वोढृष्टृत्विक्शु। तदानीं सजूर्यजमानेन मरुद्भिर्वा सह प्रीयमाणो वा सन्नायोर्मनुष्यस्य यजमानस्य सजा सह तेन साकं स्वयशम्सं स्वायत्तयशस्कं यशः साधनं नावं तरणसाधनं तरनिम्। आरोहसीति शेशः। एकमेव रथं यजमान आरोहति स्वतरणार्थं तमेव तस्य साधकमारोहसीत्यर्थः। यद्वा। नावं रथं स्वयशसमायोर्यजमानस्य सचा सहायभूतः सजूस्तेन सह प्रीयमाण आरोहेत्यर्थः॥९॥