वज्रं॒ यश्च॒क्रे सु॒हना᳚य॒ दस्य᳚वे हिरीम॒शो हिरी᳚मान् ।
अरु᳚तहनु॒रद्भु᳚तं॒ न रजः᳚ ॥
अरु᳚तहनु॒रद्भु᳚तं॒ न रजः᳚ ॥
पदपाठः (Word-by-word)
वज्र᳚म् । यः । च॒क्रे । सु॒॑हना᳚य । दस्य᳚वे । हि॒री॒म॒शः । हरी᳚मान् ।
अरु᳚त॑हनुः । अद्भु᳚तम् । न । रजः᳚ ॥
अरु᳚त॑हनुः । अद्भु᳚तम् । न । रजः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
य इन्द्र सुहनाय सुष्थु हननीयाय दस्यव उपक्शपयित्रे शत्रवे तस्य वधाय वज्रं प्रहरणसाधनमायुधं चक्रे कृतवान् स त्वं वृजिना शिशीहीत्युत्तरसम्बन्धः। कीदृश इन्द्रः। हिरीमशो हरितश्मश्रुः। पृशोदरादिः। हिरीमान् हरिताश्वो हरितवर्नो वा अरुतहनुरबाधितहनुः। किमिव। अद्भुतं न रजः। अद्भुतमिति महन्नाम। रज इति रञ्जकमन्तरिक्शमुच्यते। महदन्तरिक्षमिव। तद्यथान्यैरबाध्यम् भवति तद्वत्॥७॥