सचा॒योरिन्द्र॒श्चर्कृ᳚ष॒ आ{4} उ᳚पान॒सः स᳚प॒र्यन् ।
न॒दयो॒र्विव्र᳚तयो॒ः शूर॒ इन्द्र᳚ः ॥
न॒दयो॒र्विव्र᳚तयो॒ः शूर॒ इन्द्र᳚ः ॥
पदपाठः (Word-by-word)
सचा᳚ । आ॒योः । इन्द्रः᳚ । चर्कृ᳚षे । आ । उ॒पा॒न॒सः । स॒प॒र्यन् ।
न॒दयोः᳚ । वि॑व्र᳚तयोः । शूरः᳚ । इन्द्रः᳚ ॥
न॒दयोः᳚ । वि॑व्र᳚तयोः । शूरः᳚ । इन्द्रः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
आयोः । मनुष्यनामैतत्। मनुष्यस्य सोत्तुश्चर्कृषे पुनः पुनर्विलेखनाय। धनप्रदानायेत्यर्थः। सचा सह दातव्यैर्धनैः सहितः। यद्वा। आयोः सचा सहायभूतः। उपानसोऽन उपागतवान्। अत्यादयआः क्रान्ताद्यर्थे द्वितीयया। म. २-२-१८-४। इति प्रादिसमासः। अनसन्तान्नपुंसकात्। पा. ५-४-१०३। इति समासांतष्टच्। आरूढरथ इत्यर्थः। सर्पयन् धनैः स्तोतारं पूजयन्। यद्वा। व्यत्ययेन कर्तृप्रत्ययः। स्तुतिभिर्हविर्भिश्च पूज्यमानः। उक्तगुणविशिश्टः सन्ना। आगच्छति। उपसर्गश्रुतेरुचितक्रियाध्याहारः। कीदृश इन्द्रः। नदयोर्हेषाशब्दं उर्वतोर्विव्रतयोर्विशिष्टकर्मणोरश्वयोर्नियन्ता शूरो विक्रान्तः॥४॥