दि॒वश्चि॒दा वो॑म᳚वत्तरेभ्यो वि॒भ्वना᳚ चिदा॒श्व᳚पस्तरेभ्यः ।
वा॒योश्चि॒दा सोम᳚रभस्तरेभ्यो॒॑ग्नेश्चि᳚दर्च पितु॒कृत्त᳚रेभ्यः ॥
वा॒योश्चि॒दा सोम᳚रभस्तरेभ्यो॒॑ग्नेश्चि᳚दर्च पितु॒कृत्त᳚रेभ्यः ॥
पदपाठः (Word-by-word)
दि॒वः । चि॒त् । आ । वः॒ । अम᳚वत्॑तरेभ्यः । वि॒॑भ्वना᳚ । चि॒त् । आ॒श्व᳚पः॑तरेभ्यः ।
वा॒योः । चि॒त् । आ । सोम᳚रभः॑तरेभ्यः । अ॒ग्नेः । चि॒त् । अ॒र्च॒ । पि॒तु॒कृत्॑त᳚रेभ्यः ॥
वा॒योः । चि॒त् । आ । सोम᳚रभः॑तरेभ्यः । अ॒ग्नेः । चि॒त् । अ॒र्च॒ । पि॒तु॒कृत्॑त᳚रेभ्यः ॥
सायणभाष्यम् (Sayana Commentary)
दिवश्चिदादित्यादप्यमवत्तरेभ्योऽथन्तं बलवद्भ्यो वो युष्मभ्यमार्च। अस्तौ दध्वर्युः। यद्वा। हे अध्वर्व्यादयः वो यूयमुच्यमानलक्षणेभ्यो ग्रावभ्य आ सर्वतोऽर्च। अर्चतेत्येवं प्रतिवाक्यं योज्यम्। विभ्वना चित्। विभ्वा सुधन्वनः पुत्रः। तेनाप्याश्वपस्तरेभ्यः। शीघ्रकर्मभ्य इत्यर्थः। विभ्वादीनां त्रयाणां चमसादिशीघ्र कर्म प्रसिद्धम् । वायोश्चिद्वायोरपि सोमरभस्तरेभ्य। सोमाभिषवार्थेनात्यन्तेन वेगेन युक्तेभ्यः। वायोरपि ग्रावाणो वेगवन्तो भवन्ति सोमाभिषवार्थम्। अग्नेश्चिदग्नेरपि पितुकृत्तरेभ्योऽत्यन्तमन्नसाधकेभ्यः ईदृशेभ्यो ग्रावभ्यः प्रीणनाय यूयमर्चतेति॥५॥