अप᳚ हत र॒क्षसो᳚ भङ्गु॒राव᳚तः स्कभा॒यत॒ निरृ᳚तिं॒ सेध॒ताम᳚तिम् ।
आ नो᳚ र॒यिं सर्व᳚वीरं सुनोतन देवा॒व्यं᳚ भरत॒ श्लोक᳚मद्रयः ॥
आ नो᳚ र॒यिं सर्व᳚वीरं सुनोतन देवा॒व्यं᳚ भरत॒ श्लोक᳚मद्रयः ॥
पदपाठः (Word-by-word)
अप᳚ । ह॒त॒ । र॒क्षसः᳚ । भ॒ङ्गु॒र॑व᳚तः । स्क॒भा॒यत᳚ । निः॑ऋ᳚तिम् । सेध᳚त । अम᳚तिम् ।
आ । नः॒ । र॒यिम् । सर्व᳚॑वीरम् । सु॒नो॒त॒न॒ । दे॒व॒॑अ॒व्य᳚म् । भ॒र॒त॒ । श्लोक᳚म् । अ॒द्र॒यः॒ ॥
आ । नः॒ । र॒यिम् । सर्व᳚॑वीरम् । सु॒नो॒त॒न॒ । दे॒व॒॑अ॒व्य᳚म् । भ॒र॒त॒ । श्लोक᳚म् । अ॒द्र॒यः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे आद्रयह् यूयमप हत विनाशयत रक्षसो राक्षसान्। कीदृशान्। भङ्गुरावतो भञ्जकेन कर्मणा तद्वतः। तथा स्कभायत दूरे परिहरत निरृतिं पापदेवताम् । यथामुं यज्ञम् नागच्छति तथा। किञ्च सेधत निषेधतामतिं हिंसामतिं रक्षः प्रभृतिम् । किञ्च नोऽस्माकं सर्ववीरं बहुपुत्राद्युपेतं रयिं धनमासुनोतन। अभिषवेन पुत्रधनादीनां लाभादेवमुक्तम्। किञ्च देवाव्यं देवप्रीणनं श्लोकं भरत। सम्पादयत॥४॥