श्रवणम्

10.76.3
तदिद्ध्य᳚स्य॒ सव᳚नं वि॒वेर॒पो यथा᳚ पु॒रा मन᳚वे गा॒तुमश्रे᳚त् ।
गोअ᳚र्णसि त्वा॒ष्ट्रे अश्व᳚निर्णिजि॒ प्रेम᳚ध्व॒रेष्व᳚ध्व॒रा{4} अ᳚शिश्रयुः ॥
▶ पदपाठः (Word-by-word)
तत् । इत् । हि । अ॒स्य॒ । सव᳚नम् । वि॒वेः । अ॒पः । यथा᳚ । पु॒रा । मन᳚वे । गा॒तुम् । अश्रे᳚त् ।
गो॑अ᳚र्णसि । त्वा॒ष्ट्रे । अश्व᳚॑निर्निजि । प्र । ई॒म् । अ॒ध्व॒रेषु᳚ । अ॒ध्व॒रान् । अ॒शि॒श्र॒युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदिति पूरणः। अस्य ग्राव्णस्तत्सवनमभिषवोपेतमस्मदीयं सोमयागाख्यमपः कर्म विवेः। व्याप्नोतु। विपूर्वस्य वेतेर्लङ्यदादित्वाच्छपो लुक्। वेतेर्विपूर्वस्य वा छान्दसे श्लौ वापररूपमिति सन्देहादनवग्रहः। समासस्वरः। यथा पुरा मनवे राज्ञे गातुम् गमनमश्रेत् आजगाम तद्वद्व्याप्नोतु। किञ्च गो अर्णसि गोरूपेऽपहृतैर्गोभिः परिवृते तथाश्वनिर्णिजि। निर्णिगिति रूपनाम। अश्वरूपे। अपहृतैरश्वैर्वृत इत्यर्थः। ईदृशे त्वाष्ट्रे त्वष्टुः पुत्रे हन्तव्ये सतिति शेषः। ईमेतानध्वरानसुरैरहिंस्यानध्वरसाधकान्वोपलानध्वरेष्वशिश्रयुः। आश्रयन्ति पूर्वे यजमानाः॥३॥