ए॒ते न᳚र॒ः स्वप᳚सो अभूतन॒ य इन्द्रा᳚य सुनु॒थ सोम᳚मद्रयः ।
वा॒मंवा᳚मं वो दि॒व्याय॒ धाम्ने॒ वसु᳚वसु व॒ः पार्थि᳚वाय सुन्व॒ते ॥
वा॒मंवा᳚मं वो दि॒व्याय॒ धाम्ने॒ वसु᳚वसु व॒ः पार्थि᳚वाय सुन्व॒ते ॥
पदपाठः (Word-by-word)
ए॒ते । न॒रः॒ । सु॒॑अप᳚सः । अ॒भू॒त॒न॒ । ये । इन्द्रा᳚य । सु॒नु॒थ । सोम᳚म् । अ॒द्र॒यः॒ ।
वा॒मम्॑वा᳚मम् । वः॒ । दि॒व्याय᳚ । धाम्ने᳚ । वसु᳚॑वसु । वः॒ । पार्थि᳚वाय । सु॒न्व॒ते ॥
वा॒मम्॑वा᳚मम् । वः॒ । दि॒व्याय᳚ । धाम्ने᳚ । वसु᳚॑वसु । वः॒ । पार्थि᳚वाय । सु॒न्व॒ते ॥
सायणभाष्यम् (Sayana Commentary)
हे नरो नेतारो हे अद्रयः एते यूयं स्वपसोऽभूतन। शोभनाभिसवकर्माणो भवत। ये यूयमिन्द्राय सोमं सुनुथ वो यूयं वामंवामं यद्यद्वननीयं धनमस्ति तत्तद्दिव्याय धाम्ने तेजसे कुरुत। तथा वसुवसु यद्यद्वासयोग्यं धनमस्ति तद्वो यूयं पार्थिवाय सुन्वते यजमानाय कुरुत॥८॥