सु॒न्वन्ति॒ सोमं᳚ रथि॒रासो॒ अद्र᳚यो॒ निर᳚स्य॒ रसं᳚ ग॒विषो᳚ दुहन्ति॒ ते ।
दु॒हन्त्यूध᳚रुप॒सेच᳚नाय॒ कं नरो᳚ ह॒व्या न म᳚र्जयन्त आ॒सभि᳚ः ॥
दु॒हन्त्यूध᳚रुप॒सेच᳚नाय॒ कं नरो᳚ ह॒व्या न म᳚र्जयन्त आ॒सभि᳚ः ॥
पदपाठः (Word-by-word)
सु॒न्वन्ति᳚ । सोम᳚म् । र॒थि॒रासः᳚ । अद्र᳚यः । निः । अ॒स्य॒ । रस᳚म् । गो॒॑इषः᳚ । दु॒ह॒न्ति॒ । ते ।
दु॒हन्ति᳚ । ऊधः᳚ । उ॒प॒॑सेच᳚नाय । कम् । नरः᳚ । ह॒व्या । न । म॒र्ज॒य॒न्ते॒ । आ॒स॑भिः᳚ ॥
दु॒हन्ति᳚ । ऊधः᳚ । उ॒प॒॑सेच᳚नाय । कम् । नरः᳚ । ह॒व्या । न । म॒र्ज॒य॒न्ते॒ । आ॒स॑भिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
रथिरासो रथवन्तो रंहणवन्तोऽद्रयो ग्रावाणः सोमं सुन्वन्ति। ग्रावाणोऽस्य सोमस्य रसं निर्दुहन्ति। निःशेषेण दुहन्ति गविषः स्तुतिवाचमिच्छन्तः सन्तः। दुहंत्यूधा रसं सोमसम्बन्धिनम्। किमर्थम् । उपसेचनायाग्नेः। कमिति पादपूरणः। नरो नेतारोऽभिषवकर्तार ऋत्विजो हव्या हवींषि जाग्न्युपसेचनानन्तरमासभिः स्वास्यैर्मर्जयन्ते। शोधयन्ति। शेषभक्षणेन शुद्धीकुर्वन्ति। यद्वा। अग्नौ होतुर्दशपवित्रात्पुरासभिरास्योपलक्षितैः स्तोत्रैर्मर्जयन्ते॥७॥