इ॒र॒ज्यन्न᳚ग्ने प्रथयस्व ज॒न्तुभि᳚र॒स्मे रायो᳚ अमर्त्य ।
स द᳚र्श॒तस्य॒ वपु᳚षो॒ वि रा᳚जसि पृ॒णक्षि᳚ सान॒सिं क्रतु᳚म् ॥
स द᳚र्श॒तस्य॒ वपु᳚षो॒ वि रा᳚जसि पृ॒णक्षि᳚ सान॒सिं क्रतु᳚म् ॥
पदपाठः (Word-by-word)
इ॒र॒ज्यन् । अ॒ग्ने॒ । प्र॒थ॒य॒स्व॒ । ज॒न्तु॑भिः᳚ । अ॒स्मे इति᳚ । रायः᳚ । अ॒म॒र्त्य॒ ।
सः । द॒र्श॒तस्य᳚ । वपु᳚षः । वि । रा॒ज॒सि॒ । पृ॒णक्षि᳚ । सा॒न॒सिम् । क्रतु᳚म् ॥
सः । द॒र्श॒तस्य᳚ । वपु᳚षः । वि । रा॒ज॒सि॒ । पृ॒णक्षि᳚ । सा॒न॒सिम् । क्रतु᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने जन्तुभिर्जातैः शत्रुभिः सहेरज्यन्नीर्ष्यन् स्पर्धां कुर्वन्। इरज् ईर्ष्यायाम् । कण्ड्वादिः। यद्वा। इरज्यतिरैश्वर्यकर्मा। जन्तुभिर्जायमानैरात्मीयैस्तेजोभिरिरज्यन्नीश्वरो भवन्। हे अमर्त्य मरणरहिताग्ने अस्मे अस्माकम् । सुपां सुलुगिति षष्ठ्याः शे आदेशः। रायो धनानि प्रथयस्व। विस्तारय। रयिशब्दाच्छसः स्थानि व्यत्ययेन जस्। शसो वा व्यत्ययेनोडिदमिति विभक्त्युदात्तत्वं न क्रियते। स त्वं दर्शतस्य दर्शनीयस्य वपुषस्तेजोमयस्य शरीरस्य विराजसि। तृतीयार्थे षष्ठी वा। ईदृशेन शरीरेण विशेषेण दीप्यसे। यद्वा। राजतिरैश्वर्यकर्मा वपुरिति च रूपनाम। दर्शनीयेन रूपेण विराजसि। विशेषेणेशिषे। अत एव सानसिं सम्भजनीयं क्रतुम् कर्म पृणक्षि। अस्माभिः सम्पर्चयसि। फलेन वा संयोजयसि॥४॥