अधा॒ गाव॒ उप᳚मातिं क॒नाया॒ अनु᳚ श्वा॒न्तस्य॒ कस्य᳚ चि॒त्परे᳚युः ।
श्रु॒धि त्वं सु᳚द्रविणो न॒स्त्वं या᳚ळाश्व॒घ्नस्य᳚ वावृधे सू॒नृता᳚भिः ॥
श्रु॒धि त्वं सु᳚द्रविणो न॒स्त्वं या᳚ळाश्व॒घ्नस्य᳚ वावृधे सू॒नृता᳚भिः ॥
पदपाठः (Word-by-word)
अध᳚ । गावः᳚ । उप᳚॑मातिम् । क॒नायाः᳚ । अनु᳚ । श्वा॒न्तस्य᳚ । कस्य᳚ । चि॒त् । परा᳚ । ई॒युः॒ ।
श्रु॒धि । त्वम् । सु॒॑द्र॒वि॒णः॒ । नः॒ । त्वम् । या॒ट् । आ॒श्व॒॑घ्नस्य᳚ । व॒वृ॒धे॒ । सू॒नृता᳚भिः ॥
श्रु॒धि । त्वम् । सु॒॑द्र॒वि॒णः॒ । नः॒ । त्वम् । या॒ट् । आ॒श्व॒॑घ्नस्य᳚ । व॒वृ॒धे॒ । सू॒नृता᳚भिः ॥
सायणभाष्यम् (Sayana Commentary)
अध सम्प्रति कस्य चिच्छान्तस्य प्रवृद्धस्य श्रान्तस्य वा। आत्मनो निर्देशः। ईदृशस्य नाभानेदिष्ठस्य कनायाः कमनीयायाः स्तुतेर्गावो वाचः। यद्वा। वाचः स्तुतयः कनाया कमनीयायाः स्तुतेरुपमातिमुपमानभूतमिन्द्रमनु परेयुः। अनु परागच्छन्ति। हे सुद्रविणः सुधनाग्ने त्वं श्रुधि। शृणु। नोऽस्माकमिममिन्द्रं याट्। आयाट्। यज। त्वं चाश्वघ्नस्य। अश्वघ्नोऽश्वमेधयाजी मनुः। तस्य पुत्रस्य मम सूनृताभिः स्तुतिभिर्ववृधे। वर्धसे। पुरुषव्यत्ययः। अथवायं वर्धत इति परोक्षेण निर्देशः॥२१॥