श्रवणम्

10.154.2
तप᳚सा॒ ये अ᳚नाधृ॒ष्यास्तप᳚सा॒ ये स्व᳚र्य॒युः ।
तपो॒ ये च᳚क्रि॒रे मह॒स्ता{4}श्चि᳚दे॒वापि᳚ गच्छतात् ॥
▶ पदपाठः (Word-by-word)
तप᳚सा । ये । अ॒ना॒धृ॒ष्याः । तप᳚सा । ये । स्वः᳚ । य॒युः ।
तपः᳚ । ये । च॒क्रि॒रे । महः᳚ । तान् । चि॒त् । ए॒व । अपि᳚ । ग॒च्छ॒ता॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये जनास्तपसा कृच्छ्रचान्द्रायणादिना युक्ताः सन्तोऽनाधृष्याः पापैरप्रधृष्या भवन्ति। ये च तपसा यागादिरूपेण साधनेन स्वर्ययुः स्वर्गं यान्ति प्राप्नुवन्ति। ये च महो महत्तपोऽन्यैर्दुष्करं राजसूयाश्वमेधादिकं हिरण्यगर्भाद्युपासनं वा चक्रिरे कुर्वन्ति एतेषु प्रवर्तन्ते तेषु लोकेषु। तांश्चित्तानेव तपस्विनो हे प्रेत अपिगच्छ॥२॥