प॒रो दि॒वा प॒र ए॒ना पृ᳚थि॒व्या प॒रो दे॒वेभि॒रसु᳚रै॒र्यदस्ति᳚ ।
कं स्वि॒द्गर्भं᳚ प्रथ॒मं द᳚ध्र॒ आपो॒ यत्र᳚ दे॒वाः स॒मप᳚श्यन्त॒ विश्वे᳚ ॥
कं स्वि॒द्गर्भं᳚ प्रथ॒मं द᳚ध्र॒ आपो॒ यत्र᳚ दे॒वाः स॒मप᳚श्यन्त॒ विश्वे᳚ ॥
पदपाठः (Word-by-word)
प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । प॒रः । दे॒वेभिः᳚ । असु᳚रैः । यत् । अस्ति᳚ ।
कम् । स्वि॒त् । गर्भ᳚म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः᳚ । यत्र᳚ । दे॒वाः । स॒म्॑अप᳚श्यन्त । विश्वे᳚ ॥
कम् । स्वि॒त् । गर्भ᳚म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः᳚ । यत्र᳚ । दे॒वाः । स॒म्॑अप᳚श्यन्त । विश्वे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यदीश्वरतत्त्वं दिवा परो द्युलोकादपि परस्ताद्वर्तमानम् तथैनास्याः पृथिव्याः परः परस्ताद्वर्तमानं तथा देवेभिर्देवैः परस्ताद्वर्तमानमसुरैः परस्ताद्वर्तमानं च यदस्ति तद्दुहायामवस्थितं कं स्विद्गर्भं गर्भवत्सर्वस्य ग्राहकं तत्त्वमापः प्रथमं दध्रे। धृतवत्यः। यत्र यस्मिन्गर्भे देवा इन्द्रादयो विश्वे सर्वेऽपि समपश्यन्त सङ्गताः परस्परं पश्यन्ति। एवं चानन्नेव कश्चित्तत्त्ववित्प्रश्नं करोति॥५॥