श्रवणम्

10.82.3 समानपद
यो नः᳚ पि॒ता ज᳚नि॒ता यो वि᳚धा॒ता धामा᳚नि॒ वेद॒ भुव᳚नानि॒ विश्वा᳚ ।
यो दे॒वानां᳚ नाम॒धा एक᳚ ए॒व तं स᳚म्प्र॒श्नं भुव᳚ना यन्त्य॒न्या ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । पि॒ता । ज॒नि॒ता । यः । वि॒॑धा॒ता । धामा᳚नि । वेद᳚ । भुव᳚नानि । विश्वा᳚ ।
यः । दे॒वाना᳚म् । ना॒म॒॑धाः । एकः᳚ । ए॒व । तम् । स॒म्॑प्र॒श्नम् । भुव᳚ना । य॒न्ति॒ । अ॒न्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वोक्त एव पशौ पुरोडाशस्य यो नः पितेत्येषा याज्या। सुत्रितं च। यो नः पिता जनिता यो विधाता या ते धामानि परमाणि यावमा। आ. ३-८। इति॥

यो चिशिवकर्मा नोऽस्माकं पिता पालयिता। न केवलं पालकः किन्तु जनितोत्पादकः। किमनेनास्माकमुत्पादक इति सङ्कोचेन। यो विधाता सर्वस्य जगत उत्पादको यो विश्वकर्मा नोऽस्माकमुत्पन्नानि धामानि देवानां तेज स्थानानि वेद वेत्ति। किं बहुना। विश्वा विश्वानि भुवना भूतजातानि वेद वेत्ति। यश्च देवानामग्निवाय्वादीनां नामधा नाम्नां धाता इन्द्रादीन्निर्माय तेषामिन्द्रादि नाम कृत्वा तत्रत्यदेवेषु स्थापियिता एक एव। तं देवमन्यान्यानि भुवना भूतजातानि प्रश्नं कः परमेश्वर इति पृच्छां यन्ति। प्राप्नुवन्ति॥३॥