नी॒हा॒रेण॒ प्रावृ᳚ता॒ जल्प्या᳚ चासु॒तृप᳚ उक्थ॒शास᳚श्चरन्ति ॥
पदपाठः (Word-by-word)
नी॒हा॒रेण᳚ । प्रावृ᳚ताः । जल्प्या᳚ । च॒ । अ॒सु॒॑तृपः᳚ । उ॒क्थ॒॑शसः᳚᳚ । च॒र॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे नराः तं विश्वकर्माणं न विदाथ न जानीथ य इमेमानि भुतानि जजान उत्पादितवान्। देवदत्तोऽहं यज्ञदत्तोऽमिति वयमात्मानं विश्वकर्माणं जानीम इति यदुच्येत तदसत् न ह्यहंप्रत्ययगम्यं जीवरूपं विश्वकर्मणः परमेश्वरस्य तत्त्वं किन्तु युश्माकमहंप्रत्ययगम्यानां जीवानामन्तरमन्यदहं प्रत्ययगम्यादतिरिक्तं सर्ववेदान्तवेद्यमीश्वरतत्त्वं बभूव। भवति। विद्यते। जीवरूपवत्तदपि कुतो न विद्म इति चेत् श्रूयताम् । नीहारेण प्रावृता यूयम् नीहारसदृशेनाज्ञानेनाच्छन्नाः। अतो न जानीथ। यथा नीहारो नात्यन्तमसद्दृष्टेरावरकत्वात् नात्यन्तं सत्काष्ठपाषानादिवत्सम्बोद्धुमयोग्यत्वात् एवमज्ञानमपि नात्यन्तमसदीश्वततत्त्वावरकत्वात् नापि सद्बोधमात्रनिवर्त्यत्वात्। ईदृशेनाज्ञानेन सर्वे जीवाः प्रावृताः। न केवलं प्रावृतत्वं किन्तु जल्प्या च देवोऽहं मनुष्योऽहमित्याद्यनृतजल्पनेन प्रावृताः। किञ्चासुतृपः केनाप्युपायेनासून्प्राणांस्तृप्यन्तः। उदरम्भरा इत्यर्थः। न तु पारमेश्वरं तत्त्वं विचारितवन्तः। न केवलमिहलोकेभोगमात्रतृप्ता उक्थतासो नानाविधेषु यज्ञेषूक्थ्यं प्रौगनिष्केवल्यादिकं शंसं तश्चरन्ति। पृथिव्यां वर्तन्ते। केवल मैहिकामुष्मिकभोगपरा वर्तध्वेऽतो विश्वकर्माणं देवं न जानीथेत्यर्थः॥७॥