श्रवणम्

10.138.3
वि सूर्यो॒ मध्ये᳚ अमुच॒द्रथं᳚ दि॒वो वि॒दद्दा॒साय᳚ प्रति॒मान॒मार्य᳚ः ।
दृ॒ळ्हानि॒ पिप्रो॒रसु᳚रस्य मा॒यिन॒ इन्द्रो॒ व्या᳚स्यच्चकृ॒वा{4} ऋ॒जिश्व᳚ना ॥
▶ पदपाठः (Word-by-word)
वि । सूर्यः᳚ । मध्ये᳚ । अ॒मु॒च॒त् । रथ᳚म् । दि॒वः । वि॒दत् । दा॒साय᳚ । प्र॒ति॒॑मान᳚म् । आर्यः᳚ ।
दृ॒ळ्हानि᳚ । पिप्रोः᳚ । असु᳚रस्य । मा॒यिनः᳚ । इन्द्रः᳚ । वि । आ॒स्य॒त् । च॒कृ॒॑वान् । ऋ॒जिश्व᳚ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवो द्युलोकस्य मध्ये सूर्य आदित्यो रथं प्रस्थानाय व्यमुचत्। विमिक्तवान्। मुचेर्लुङि लृदित्त्वाच्च्लेरङादेशः। कदेति चेदुच्यते। यदार्योऽभिज्ञ इन्द्रो दासायोपक्शपयित्रे वृत्राददये प्रतिमानं प्रतिकृतिं प्रतीकारं विदत् वेत्ति जानाति। अलभत वा। अपि च मायिनो मायाविनः। मायाशब्दस्य व्रीह्यादिषु पाठाद्व्रीह्यादिभ्यश्चेतीनिप्रत्ययः। पिप्रोरेतन्नाम्नोऽसुरस्य दृळ्हानि दृढानि स्थिराणि पुराणि बलानि वर्जिश्वना राजर्षिणा चकृवान् सख्यं कुर्वन्निन्द्रो व्यास्यत्। व्यक्षिपत्। विविधमाक्षिप्तवान्। व्यनीनशदित्यर्थः। असु क्षेपणे॥३॥