श्रवणम्

10.138.5
अयु᳚द्धसेनो वि॒भ्वा᳚ विभिन्द॒ता दाश᳚द्वृत्र॒हा तुज्या᳚नि तेजते ।
इन्द्र᳚स्य॒ वज्रा᳚दबिभेदभि॒श्नथ॒ः प्राक्रा᳚मच्छु॒न्ध्यूरज᳚हादु॒षा अनः᳚ ॥
▶ पदपाठः (Word-by-word)
अयु᳚द्ध॑सेनः । वि॒॑भ्वा᳚ । वि॒॑भि॒न्द॒ता । दाश᳚त् । वृ॒त्र॒॑हा । तुज्या᳚नि । ते॒ज॒ते॒ ।
इन्द्र᳚स्य । वज्रा᳚त् । अ॒बि॒भे॒त् । अ॒भि॒॑श्नथः᳚ । प्र । अ॒क्रा॒म॒त् । शु॒न्ध्यूः । अज᳚हात् । उ॒षाः । अनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विभ्वा विभुना व्याप्तेन विभिन्दता विदारयता एवं विधेनापि परकीयबलेनायुद्धसेनोऽप्रहृतसेनः। यद्वा। विभ्वा वुभुर्व्याप्तो विभिन्दता शत्रुबलानि विदारयता वज्रेण। वृत्रहा वृत्रं हतवान् एवं विध इन्द्रो दाशत्। दाशति। स्तोतृभ्यो धनं प्रयच्छति। दाशृ दाने। लेट्यडागमः। तथा तुज्यानि प्रेर्याणि शत्रुबलानि तेजते। तनूकरोति। अल्पीकरोति। तिजनिशाने। यद्वा। शत्रून्प्रति प्रेर्याण्यायुधानि तेजते। निश्यति। तीक्ष्णीकरोति। ईदृशस्येन्द्रस्याभिश्नथोऽभितो हिंसकाद्वज्रात्सर्वं शत्रुजातमबिभेत्। भीतिं प्राप्नोत्। एवमसुरेष्विन्द्रेण निरस्तेषु शुन्ध्यूः शोधयितादित्यः प्राक्रामत्। जगत्प्रकाशनाय गन्तुं प्रक्रान्तवान्। उषा उषोदेवता चानः स्वकीयं शकटं रथमजहात्। गन्तुं प्रयत्यजत्। ओहाक् त्यागे॥५॥