गर्भं᳚ धेहि सिनीवालि॒ गर्भं᳚ धेहि सरस्वति ।
गर्भं᳚ ते अ॒श्विनौ᳚ दे॒वावा ध᳚त्तां॒ पुष्क᳚रस्रजा ॥
गर्भं᳚ ते अ॒श्विनौ᳚ दे॒वावा ध᳚त्तां॒ पुष्क᳚रस्रजा ॥
पदपाठः (Word-by-word)
गर्भ᳚म् । धे॒हि॒ । सि॒नी॒वा॒लि॒ । गर्भ᳚म् । धे॒हि॒ । स॒र॒स्व॒ति॒ ।
गर्भ᳚म् । ते॒ । अ॒श्विनौ᳚ । दे॒वौ । आ । ध॒त्ता॒म् । पुष्क᳚र॑स्रजा ॥
गर्भ᳚म् । ते॒ । अ॒श्विनौ᳚ । दे॒वौ । आ । ध॒त्ता॒म् । पुष्क᳚र॑स्रजा ॥
सायणभाष्यम् (Sayana Commentary)
हे सिनीवल्येतत्संज्ञे देवि गर्भं धेहि। निषिक्तं गर्भं धारय। हे सरस्वति त्वं च निशिक्तं गर्भं धारय। हे जाये पुष्करस्रजा पुष्करमालिनौ स्वर्णकमलाभरणावश्विनौ देवौ ते तव गर्भमा धत्ताम्। प्रक्शिपताम्। कुरुतामित्यर्थः॥२॥